अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः । सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते
त्वयाहं च प्रजासर्गे नियुक्त: शक्तिबृंहितः । त्वदाज्ञावशतः सर्गं करोमि विकरोमि च
त्वत्सहायेन देवेशा अमराश्च पुरा हरे । सुधां विभेजिरे सर्वे यथाकालं यथाबलम्
इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशत: । भूनक्ति लक्ष्मीं बहुलां सुरसंघप्रपूजित:
वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः । देवासुरमनुष्याणां करोत्याप्यायनं तथा
धर्मराजोऽथ पितृणामधिपः सर्वकर्मदृक । कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः
नैर्ऋतो रक्षसामीशो यक्षो विघ्नविनाशन: । सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते
वरुणो यादसामीशो लोकपालो जलाधिपः । त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः
वायुर्गन्धवह: सर्वभूतप्राणनकारणम् । जातस्तव निदेशेन लोकपालो जगद्गुरुः
कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः । त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभू
ईशान: सर्वरुद्राणामीश्वरान्तकरः प्रभूः । जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः
नमस्तुभ्यं भगवते जगदीशाय कुर्महे । यस्थांशभागाः सर्वे हि जाता देवाः सहस्रशः
नारद उवाच एव स्तुतो विश्वसृजा भगवानादिपूरुष: । लीलावलोकमात्रेणाप्यनुग्रहमवासृजत्
तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् । रुन्धानमध्वनो भीमं गदयाताडयद्धरि:
तद्रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः । उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम्
निवेश्य लोकनाथेशो जगाम स्थानमात्मनः । एतद्भगवतश्चित्रं धरण्युद्धरणं परम्
शृणूयाद्य: पुमान् यश्च पठेच्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात्
भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम् श्रीनारायण उवाच महीं देव: प्रतिष्ठाप्य यथास्थाने च नारद । वैकुण्ठलोकमगमद् ब्रह्मोवाच स्वमात्मजम्
स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर । स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम्
देशकालविभागेन यज्ञेशं पुरुषं यज । उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो
धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् । एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति
पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः । विद्याविनयसम्पन्नान् सदाचारवतां वरान्
कन्याश्च दत्त्वा गुणवद्यशोवद्भ्यः समाहितः । मन: सम्यक् समाधाय प्रधानपुरुषे परे
भक्तिसाधनयोगेन भगवत्परिचर्यया । गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान्
इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापति: । प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत
प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् । स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः
भुवनकोशविषये प्रियव्रतवंशवर्णनम् श्रीनारायण उवाच मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः । पितुः सेवापरो नित्यं सत्यधर्मपरायणः
प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः । बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः
तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः । जनयामास कन्यां चोर्जस्वतीं च यवीयसीम्
आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः । महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः