ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ । वराहपोतो निरगादेकाङ्गुलप्रमाणतः
तस्यैव पश्यतः खस्थः क्षणेन किल नारद । करिमात्रं प्रववृधे तदद्भूततमं ह्यभूत्
मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद । तद्दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः
किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् । अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम्
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्निभः । आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः
इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः । वराहरूपो भगवाञ्जगर्जाचलसन्निभः
विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् । स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन्
ते निशम्य स्वखेदस्य क्षयितुं घुर्धुरस्वनम् । जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः
छन्दोमयैः स्तोत्रवरैर्ऋक्सामाथर्वसम्भवैः । वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन्
तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः । कृपावलोकमात्रेणानुगहीत्वाप आविशत्
तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः । समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन्
इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः । विदारयञ्जलचराञ्जगामान्तर्जले विभुः
इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् । आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः
अनर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा । भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम्
तां समुद्धृत्य दंष्टाग्रे यज्ञेशो यज्ञपूरूषः । शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम्
तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् । तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम्
ब्रह्मोवाच जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन । खर्वीकृतसुराधार सर्वकामफलप्रद
इयं च धरणी देव शोभते वसुधा तव । पद्यिनीव सुपत्राढ्या मतङ्गजकरोद्धृता
इदं च ते शरीरं वै शोभते भूमिसङ्गमात् । उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम्
नमो नमस्ते देवेश सृष्टिसंहारकारक । दानवानां विनाशाय कृतनानाकृते प्रभो
अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः । सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते
त्वयाहं च प्रजासर्गे नियुक्त: शक्तिबृंहितः । त्वदाज्ञावशतः सर्गं करोमि विकरोमि च
त्वत्सहायेन देवेशा अमराश्च पुरा हरे । सुधां विभेजिरे सर्वे यथाकालं यथाबलम्
इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशत: । भूनक्ति लक्ष्मीं बहुलां सुरसंघप्रपूजित:
वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः । देवासुरमनुष्याणां करोत्याप्यायनं तथा
धर्मराजोऽथ पितृणामधिपः सर्वकर्मदृक । कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः
नैर्ऋतो रक्षसामीशो यक्षो विघ्नविनाशन: । सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते
वरुणो यादसामीशो लोकपालो जलाधिपः । त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः
वायुर्गन्धवह: सर्वभूतप्राणनकारणम् । जातस्तव निदेशेन लोकपालो जगद्गुरुः
कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः । त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभू