देव्युवाच प्रजासर्गः प्रभवतु ममानुग्रहतः किल । निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम्
यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा । तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु
जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् । सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः
श्रीनारायण उवाच एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः
अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् । ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः
यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम्
इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः । चिन्तयामास सुचिरं कथं कार्यं भवेदिदम्
सृजतो मे गतः कालो विपुलोऽनन्तसंख्यकः । धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया
इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः । करिष्यति सहायो मे यदादेशेऽहमाश्रितः
भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् श्रीनारायण उवाच एवं मीमांसतस्तस्य पद्मयोनेः परन्तप । मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः
ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ । वराहपोतो निरगादेकाङ्गुलप्रमाणतः
तस्यैव पश्यतः खस्थः क्षणेन किल नारद । करिमात्रं प्रववृधे तदद्भूततमं ह्यभूत्
मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद । तद्दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः
किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् । अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम्
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्निभः । आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः
इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः । वराहरूपो भगवाञ्जगर्जाचलसन्निभः
विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् । स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन्
ते निशम्य स्वखेदस्य क्षयितुं घुर्धुरस्वनम् । जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः
छन्दोमयैः स्तोत्रवरैर्ऋक्सामाथर्वसम्भवैः । वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन्
तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः । कृपावलोकमात्रेणानुगहीत्वाप आविशत्
तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः । समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन्
इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः । विदारयञ्जलचराञ्जगामान्तर्जले विभुः
इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् । आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः
अनर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा । भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम्
तां समुद्धृत्य दंष्टाग्रे यज्ञेशो यज्ञपूरूषः । शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम्
तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् । तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम्
ब्रह्मोवाच जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन । खर्वीकृतसुराधार सर्वकामफलप्रद
इयं च धरणी देव शोभते वसुधा तव । पद्यिनीव सुपत्राढ्या मतङ्गजकरोद्धृता
इदं च ते शरीरं वै शोभते भूमिसङ्गमात् । उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम्
नमो नमस्ते देवेश सृष्टिसंहारकारक । दानवानां विनाशाय कृतनानाकृते प्रभो