जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम्
कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात्
कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा
एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि
व्यास उवाच एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत्
श्रीनारायण उवाच शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे
जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः
सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात्
तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा
मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः
स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम्
पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति
एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद् विभुः
तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम्
मनुरुवाच नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते
वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे
माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियंकरि
गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते
यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम्
ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा । पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात्
मधुकैटभसम्भूतभयार्तः पद्मसम्भवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः
त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती । दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया
स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च । ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे
ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः
कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् । नैर्ऋतो रक्षसां नाथः सोमो जातो ह्यपोमयः
त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि । नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः
श्रीनारायण उवाच एवं स्तुता भगवती दुर्गा नारायणी परा । प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः
देव्युवाच वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि । प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च
मनुरुवाच यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे । तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया