गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ । पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि
भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम् जनमेजय उवाच सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम्
अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका । मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते
यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा । (शरीरेण च देवेशी पूजनीया फलप्रदा । येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते
येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः । तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम्
व्यास उवाच शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् । यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते
एवमेतन्नारदेन पृष्टो नारायणः पुरा । तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः
एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् । नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान्
तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्भवः । पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ
नारद उवाच देवदेव महादेव पुराणपुरुषोत्तम । जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण
जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् । जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम्
कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात्
कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे । प्रकाशो जायते देव तमस्यर्कोदयो यथा
एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि
व्यास उवाच एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत्
श्रीनारायण उवाच शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे
जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि । ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः
सा जगत्सृजते देवी तया च प्रतिपाल्यते । तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात्
तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा
मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् । शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः
स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम्
पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति
एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् । जगद्योनिं तदा देवीं तपसातर्पयद् विभुः
तुष्टाव देवीं देवेशीं समाहितमतिः किल । आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम्
मनुरुवाच नमो नमस्ते देवेशि जगत्कारणकारणे । शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते
वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि । वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे
माहेश्वरि महाभागे महामाये महोदये । महादेवप्रियावासे महादेवप्रियंकरि
गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे । महामारीभयहरे नमो देवादिपूजिते
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते
यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा । चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम्