जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम्
तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम्
आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । असनावाहने चार्घ्यं पाद्याद्याचमनं तथा
स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः
यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते
मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत्
पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः
नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च
कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः
महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः
पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः
वेदपारायणैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम्
निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः
बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत्
सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत । हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता
हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता । तस्माद्हृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम्
गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम्
न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा
ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन् महादेव्याः प्रपूजनम्
विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि
इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे
एतत्प्रकाशनं मातुरुद्घाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा
देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च
श्राद्धकाले पठेदेतद्ब्राह्मणानाम् समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम्
व्यास उवाच इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन्
ततो हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च
ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप
तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः
वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् । इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम्
गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः