तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित्
सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान्
तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत्
सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः
मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः
उपासन्ते सदा भक्त्या योगमैश्वरसञ्ज्ञितम् । तेषां नित्याभियुक्तानामहमज्ञानजं तमः
ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप
स्वरूपमुक्तं संक्षेपाद् द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले
जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम्
सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम्
शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम्
पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः
यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत्
आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेव परं रूपमुपाधिरहितं मम
अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत्
अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयेन्निर्मनस्केन योगयुक्तेन चेतसा
अतः परं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा शृणु पर्वतसत्तम
देवीगीतायां बाह्यपूजाविधिवर्णनम् श्री देव्युवाच प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम्
सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः
प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः पदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये
ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत्
अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत्
भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत्
मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत्
तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः
ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताः पादमूले मम स्थिताः
पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा
ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि
जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत्