घ्राणं सुखं सुगन्धेन कर्णजं श्रवणेन च । स्त्रीसुखं तु स्त्रिया नूनं पुत्रोऽहं किं करोमि ते
अजीगर्तेन पुत्रोऽपि हरिश्चन्द्राय भूभुजे । पशुकामाय यज्ञार्थे दत्तो मौल्येन सर्वथा
सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः । धनमर्जय लोभश्चेत्पुत्रोऽहं किं करोम्यहम्
मां प्रबोधय बुद्ध्या त्वं दैवज्ञोऽसि महामते । यथा मुच्येयमत्यन्तं गर्भवासभयान्मुने
दुर्लभं मानुषं जन्म कर्मभूमाविहानघ । तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले
बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः । संसारवासनाजाले निविष्टा वृद्धिगामिनी
सूत उवाच इत्युक्तस्तु तदा व्यासः पुत्रेणामितबुद्धिना । प्रत्युवाच शुकं शान्तं चतुर्थाश्रममानसम्
व्यास उवाच पठ पुत्र महाभाग मया भागवतं कृतम् । शुभं न चातिविस्तीर्णं पुराणं ब्रह्मसम्मितम्
स्कन्धा द्वादश तत्रैव पञ्चलक्षणसंयुतम् । सर्वेषां च पुराणानां भूषणं मम सम्मतम्
सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते । येन भागवतेनेह तत्पठ त्वं महामते
वटपत्रशयानाय विष्णवे बालरूपिणे । केनास्मि बालभावेन निर्मितोऽहं चिदात्मना
किमर्थं केन द्रव्येण कथं जानामि चाखिलम् । इत्येवं चिन्त्यमानाय मुकुन्दाय महात्मने
श्लोकार्धेन तया प्रोक्तं भगवत्याखिलार्थदम् । सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम्
तद्वचो विष्णुना पूर्वं संविज्ञातं मनस्यपि । केनोक्ता वागियं सत्या चिन्तयामास चेतसा
कथं वेद्मि प्रवक्तारं स्त्रीपुंसौ वा नपुंसकम् । इति चिन्ताप्रपन्नेन धृतं भागवतं हृदि
पुनः पुनः कृतोच्चारस्तस्मिनेवास्तचेतसा । वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः
तदा शान्ता भगवती प्रादुरास चतुर्भुजा । शङ्खचक्रगदापद्मवरायुधधरा शिवा
दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । संयुता सदृशीभिश्च सखीभिः स्वविभूतिभिः
प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः । मन्दहास्यं प्रयुञ्जाना महालक्ष्मीः शुभानना
सूत उवाच तां तथा संस्थितां दृष्ट्वा हृदये कमलेक्षणः । विस्मितः सलिले तस्मिन्निराधारा मनोरमाम्
रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिर्धृतिः । श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया गतिः
तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः । संस्थिताः सर्वतः पार्श्वे महादेव्याः पृथक्पृथक्
वरायुधधराः सर्वा नानाभूषणभूषिताः । मन्दारमालाकुलिता मुक्ताहारविराजिताः
तां दृष्ट्वा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले । विस्मयाविष्टहृदयः सम्बभूव जनार्दनः
चिन्तयामास सर्वात्मा दृष्टमायोऽतिविस्मितः । कुतो भूताः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः
अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः । केनाहं स्थापितोऽस्म्यत्र शिशुं कृत्वा शुभाकृतिम्
ममेयं जननी नो वा माया वा कापि दुर्घटा । दर्शनं केनचित्त्वद्य दत्तं वा केन हेतुना
किं मया चात्र वक्तव्यं गन्तव्यं वा न वा क्वचित् । मौनमास्थाय तिष्ठेयं बालभावादतन्द्रितः
व्यासोपदेशवर्णनम् दृष्ट्वा तं विस्मितं देवं शयानं वटपत्रके । उवाच सस्मितं वाक्यं विष्णो किं विस्मितो ह्यसि
महाशक्त्याः प्रभावेण त्वं मां विस्मृतवान्पुरा । प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः