अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय
इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः
प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः
प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम्
श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते
सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः
स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते
क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः
अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता
तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन
सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः
मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर
अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप
ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत्
यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः
ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च
श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः
शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः
दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा
शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु
तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित्
सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान्
तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत्
सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः
मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः
उपासन्ते सदा भक्त्या योगमैश्वरसञ्ज्ञितम् । तेषां नित्याभियुक्तानामहमज्ञानजं तमः
ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप
स्वरूपमुक्तं संक्षेपाद् द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले
जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम्
सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम्