नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे । तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम्
प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग
तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम
एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः
प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत दोलोत्सवसुखान्विभो
शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च
पवित्रोत्सवमेवापि श्रावणो प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान्
मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः
वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः
स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् । नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन
देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् हिमालय उवाच देवदेवि महेशानि करुणासागरेऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम्
श्रीदेव्युवाच वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् । अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव
द्विविधा मम पूजा स्याद् बाह्या चाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा
वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः
तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम्
करोति यो नरो मूढः स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम्
यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर । अनन्तशीर्षनयनमनन्तचरणं महत्
सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद् ध्यायेत्स्मरेदपि
इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग । शान्तः समाहितमना दम्भाहङ्कारवर्जितः
तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा
अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय
इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः
प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः
प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम्
श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते
सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः
स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते
क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः
अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता
तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन