छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम्
यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम्
शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते
अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत्
नोचेन्महान् विनाशः स्याज्जन्मैतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा
शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम्
तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः
साधने सफलेऽप्येवं जायमानेऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम्
तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम्
घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन
ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि
देवीगीतायां महोत्सवव्रतस्थानवर्णनम् हिमालय उवाच कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च
व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं देव मे मातः कृतकृत्यो यतो नरः
श्रीदेव्युवाच सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी
तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते । शृणुष्वावहितो भूत्वा नगराज वचो मम
कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम्
तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च । हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च
शकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च
विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णमहास्थानं काञ्चीपुरमनुत्तमम्
भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव
नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके । जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम्
गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे
वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् । एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम्
महालसा परं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम्
वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम्
श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम्
नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला
तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि
तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात्
गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् । अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी