मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहितः स्वकल्याणार्थमेव च
नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः
भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी
परमेशार्पणं कर्म पापसङ्क्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम्
इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी
परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते
अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम्
कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा
हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा
मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति
परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः
मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि
चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा
नमते यजते चैवाप्याचाण्डालान्तमीश्वर । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात्
मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो
मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा । प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः
अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम्
व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः
मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा । जायते यस्य नियतं स्वभावादेव भूधर
उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहङ्कारादिरहितो देहतादात्म्यवर्जितः
प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु
इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते
इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत्
भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः
भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति
तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग
तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः
मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः
कण्ठचामीकरसममज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते
विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथादर्शे तथात्मनि यथा जले तथा पितृलोके