प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्
यस्मिन् द्यौश्च पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानं अन्या वाचो विमुञ्चथामृतस्यैष सेतुः
अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः
ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे
हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम्
एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति
द्वितीयाद्वै भयं राजंस्तदभावाद् बिभेति न । न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न
अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम
नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे
मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका
विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम
कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने
शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टा विद्येयं स एव परमेश्वरः
यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः
पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग
तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः
तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत्
अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया
अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ
पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप । लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर
इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ब्रह्मविद्योपदेशवर्णनं नाम षट्त्रिंशोऽध्यायः
देवीगीतायां भक्तिमहिमावर्णनम् हिमालय उवाच स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि । जायेत मनुजस्यास्य मध्यमस्याविरागिणः
देव्युवाच मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम
त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा । सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात्
गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम्