जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः
क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः
उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम्
बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुमूलाधोलिङ्गनाभिषु
हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि
धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना
आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः
समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम्
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम्
तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः
प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्ररूपिणी । इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी
शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा । दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा
सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम्
मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम्
तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप
तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत्
तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम्
मूलमाधारषट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः
तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः
मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम्
विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम्
कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम्
शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम्
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम्
स्वरैः षोडशभिर्युक्तं धूम्रवर्णम् महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात्
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वं तु आत्मनाधिष्ठितं परम्
आज्ञासंक्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम्
कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत
सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम्
आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत्