विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम्
इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि
योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् । देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः
हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम्
एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः
समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम्
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः
भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारम् विश्वमात्मानं रकारे प्रविलापयेत्
रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत्
वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे
इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः
योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत्
श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् हिमालय उवाच योगं वद महेशानि साङ्गं संवित्प्रदायकम् । कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने
श्रीदेव्युवाच न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः
तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसञ्ज्ञकौ
योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततः परम्
प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश
तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम्
दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा
वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे
अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम्
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते
सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत्
भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली
करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे
ऋजुकायो विशेद्योगी वीरासनमितीरितम् । इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया
धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया । सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः
नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः
भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश