एतादृशं महारूपं ददृशुः सुरपुङ्गवाः । ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया
दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत्
सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम्
भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे
विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि
अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान्
अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः
बाष्पगद्गदया वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान्
कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह
स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत्
नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके । सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये
यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः
यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः
प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः
सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः
यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः
यस्माद्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः
नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः
उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम्
व्यास उवाच इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम्
पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम्
दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः
श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् श्री देव्युवाच क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया
न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना
प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत
क्रियाः करोति विविधा धर्माधर्मैकहेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते
पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा । नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते
घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः
तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम्
पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी