जन्मदुःखं जरादुःखं दुःखं च मरणे तथा । गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः
तस्मादतिशयं दुःखं तृष्णालोभसमुद्भवम् । याञ्चायां परमं दुःखं मरणादपि मानद
प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः । पराशा परमं दुःखं मरणं च दिने दिने
पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः । गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः
एकोदरस्य का चिन्ता पत्रमूलफलादिभिः । येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते
भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति । पूरणार्थं महद्दुःखं क्व सुखं पितरद्भुतम्
योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् । कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन
वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा । वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम्
जलूकेव सदा नारी रुधिरं पिबतीति वै । मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः
भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः । कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः
निद्रासुखविनाशार्थं मूर्खस्तु दारसंग्रहम् । करोति वञ्चितो धात्रा दुःखाय न सुखाय च
सूत उवाच एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च । सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम्
तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च । वेपथुश्च शरीरेऽभूद्ग्लानिं प्राप मनस्तथा
शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् । उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः
अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् । वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम्
न जाने का च सा माया किंस्वित्सातीव दुष्करा । या मोहयति विद्वांसं व्यासं सत्यवतीसुतम्
पुराणानां च वक्ता च निर्माता भारतस्य च । विभागकर्ता वेदानां सोऽपि मोहमुपागतः
तां यामि शरणं देवीं या मोहयति वै जगत् । ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी
कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया । यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः
अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् । माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः
विष्ण्वंशसम्भवो व्यास इति पौराणिका जगुः । सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा
अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा । अहो मायाबलं चैतद्दुस्त्यजं पण्डितैरपि
कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल । पञ्चभूतात्मके देहे पितापुत्रेति वासना
बलिष्ठा खलु मायेयं मायिनामपि मोहिनी । ययाभिभूतः कृष्णोऽपि करोति रोदनं द्विजः
सूत उवाच तां नत्वा मनसा देवीं सर्वकारणकारणाम् । जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम्
पितरं प्राह दीनं तं शोकार्णवपरिप्लुतम् । अरणीसम्भवो व्यासं हेतुमद्वचनं शुभम्
पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् । किं शोकं कुरुषे स्वामिन्यथाज्ञः प्राकृतो नरः
अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि । कोऽहं कस्त्वं महाभाग विभ्रमोऽयं महात्मनि
कुरु धैर्यं प्रबुध्यस्व मा विषादे मनः कृथाः । मोहजालमिमं मत्वा मुञ्च शोकं महामते
क्षुधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च । पिपासा जलपानेन याति नैवात्मजेक्षणात्