उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा
न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः
वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा
जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः
तथेश्वरबहुत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर
माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर
ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी
सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः
व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः
यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता
न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत्
रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः
अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत्
हिमालय उवाच यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि
व्यास उवाच इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः
अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी
अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी
दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम्
नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम्
तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः
नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी
ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः
दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः
लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले
कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः
कौमारयौवनजरा वयोऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो
राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम्
अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागतां गताः