तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः
ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम्
यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम्
अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम्
तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा
हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः
ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः
एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता
सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते
तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः
सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप
तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया
देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः
स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः
प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया
करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः
श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् देव्युवाच मन्मायाशक्तिसंक्लृप्तं जगत्सर्वं चराचरम् । सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः
व्यवहारदृशा सेयं विद्या मायेति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम्
साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । मायाकर्मादिसहिता गिरे प्राणपुरःसरा
लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा
उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा
न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः
वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा
जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः
तथेश्वरबहुत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर
माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर
ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी
सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः