सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि । तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम्
शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे । शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि
सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः । एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके
सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला । प्रार्थनीयमिदं मुख्यमपरं देहहेतवे
इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी । मम शक्तिस्तु या गौरी भविष्यति हिमालये
शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति । भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात्
हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम्
व्यास उवाच हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः । बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत्
महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि । नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी
असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः
अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् । अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति
यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि
न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् । एतादृशानां वासाय येषां वंशेऽस्ति मादृशः
इदं यथा च दत्तं मे कृपया प्रेमपूर्णया । सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा
योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः
व्यास उवाच इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम्
देव्या व्यष्टिसमष्टिर्पवर्णनम् श्रीदेव्युवाच शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते
अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम्
अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता
न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा
पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा
तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत्
स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम्
चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते
केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम्
विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः
एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती
चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम्
अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम्
प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम