तस्मात्त्वमपि कल्याण कुरु मे वचनं हितम् । कुलजां कन्यकां वृत्वा वेदमार्गं समाश्रय
शुकवैराग्यवर्णनम् नाहं गृहं करिष्यामि दुःखदं सर्वदा पितः । वागुरासदृशं नित्यं बन्धनं सर्वदेहिनाम्
धनचिन्तातुराणां हि क्व सुखं तात दृश्यते । स्वजनैः खलु पीड्यन्ते निर्धना लोलुपा जनाः
इन्द्रोऽपि न सुखी तादृग्यादृशो भिक्षुनिःस्पृहः । कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति
तपन्तं तापसं दृष्ट्वा मघवा दुःखितोऽभवत् । विघ्नान्बहुविधानस्य करोति च दिवस्पतिः
ब्रह्मापि न सुखी विष्णुर्लक्ष्मीं प्राप्य मनोरमाम् । खेदं प्राप्नोति सततं संग्रामैरसुरैः सह
करोति विपुलान्यत्नांस्तपश्चरति दुश्चरम् । रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम्
शङ्करोऽपि सदा दुःखी भवत्येव च वेद्म्यहम् । तपश्चर्यां प्रकुर्वाणो दैत्ययुद्धकरः सदा
कदाचिन्न सुखी शेते धनवानपि लोलुपः । निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः
जानन्नपि महाभाग पुत्रं वा वीर्यसम्भवम् । नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा
जन्मदुःखं जरादुःखं दुःखं च मरणे तथा । गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः
तस्मादतिशयं दुःखं तृष्णालोभसमुद्भवम् । याञ्चायां परमं दुःखं मरणादपि मानद
प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः । पराशा परमं दुःखं मरणं च दिने दिने
पठित्वा सकलान् वेदाञ्छास्त्राणि च समन्ततः । गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुधैः
एकोदरस्य का चिन्ता पत्रमूलफलादिभिः । येनकेनाप्युपायेन सन्तुष्ट्या च प्रपूर्यते
भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति । पूरणार्थं महद्दुःखं क्व सुखं पितरद्भुतम्
योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम् । कर्मकाण्डेऽखिले तात न रमेऽहं कदाचन
वद कर्मक्षयोपायं प्रारब्धं सञ्चितं तथा । वर्तमानं यथा नश्येत् त्रिविधं कर्ममूलजम्
जलूकेव सदा नारी रुधिरं पिबतीति वै । मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः
भोगैर्वीर्यं धनं पूर्णं मनः कुटिलभाषणैः । कान्ता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः
निद्रासुखविनाशार्थं मूर्खस्तु दारसंग्रहम् । करोति वञ्चितो धात्रा दुःखाय न सुखाय च
सूत उवाच एवंविधानि वाक्यानि श्रुत्वा व्यासः शुकस्य च । सम्प्राप महतीं चिन्तां किं करोमीत्यसंशयम्
तस्य सुस्रुवुरश्रूणि लोचनादुःखजानि च । वेपथुश्च शरीरेऽभूद्ग्लानिं प्राप मनस्तथा
शोचन्तं पितरं दृष्ट्वा दीनं शोकपरिप्लुतम् । उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः
अहो मायाबलं चोग्रं यन्मोहयति पण्डितम् । वेदान्तस्य च कर्तारं सर्वज्ञं वेदसम्मितम्
न जाने का च सा माया किंस्वित्सातीव दुष्करा । या मोहयति विद्वांसं व्यासं सत्यवतीसुतम्
पुराणानां च वक्ता च निर्माता भारतस्य च । विभागकर्ता वेदानां सोऽपि मोहमुपागतः
तां यामि शरणं देवीं या मोहयति वै जगत् । ब्रह्मविष्णुहरादींश्च कथान्येषां च कीदृशी
कोऽप्यस्ति त्रिषु लोकेषु यो न मुह्यति मायया । यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः
अहो बलमहो वीर्यं देव्या खलु विनिर्मितम् । माययैव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः