तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति
इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः
आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः
अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप
केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः
मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः
हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय
अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम्
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम्
विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत्
आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् । न च स्त्रीरूपमथवा न पुंरूपमथोभयम्
दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते । पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः
तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् । अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम्
उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् । रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम्
कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् । अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम्
तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । नितम्बबिम्बसुभगां रोमराजिविराजिताम्
कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम्
अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् । रक्तारविन्दनयनामुन्नसां मधुराधराम्
कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् । रत्नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम्
मल्लिकामालतीमालाकेशपाशविराजिताम् । काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम्
पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम्
सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् । सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम्
प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् । अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः
दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः । वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः
कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः । प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम्
देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः
देवीं वाचमजनयन्त देवा- स्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम्
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात्