इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः
पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः । रहस्यातिरहस्यं च किं भूयः सह्रोतुमिच्छसि
हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् जनमेजय उवाच धराधराधीशमौलावाविरासीत्परं महः । यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे
को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् । सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत्
व्यास उवाच धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः । भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते
शृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते । भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत्
प्रपञ्चभानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान्
सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् । शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम्
आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे । उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः
सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् । ग्रहाणां देवतानां च वैपरीत्येन वर्तनम्
अधिभूताधिदैवानां सत्यभावान्नृपाभवन् । अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः
ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति
इति कल्पितमृत्युः स देवदेवैर्महासुरः । शिवौरससुताभावाज्जगर्ज च ननन्द च
तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः । शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम्
नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः । अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति
इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले । शशंसुर्हरिमेकान्ते स चोपायं जगाद ह
कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा । जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी
अस्माकमनया देव तदुपेक्षास्ति नान्यथा । शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च
लालने ताडने मातुर्नाकारुण्यं यथार्भके । तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः
अपराधो भवत्येव तनयस्य पदे पदे । कोऽपरः सहते लोके केवलं मातरं विना
तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति
इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः
आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः
अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप
केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः
मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः
हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय
अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम्
चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम्
विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत्