करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी
अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे
छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती
देवमाता सरस्वत्यां पारावारा तटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी
सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे
माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा
कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धरा नाम धृतिः पिण्डारके तथा
कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा
औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी
अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसन्निधौ
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता
अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्
इमान्यष्ट शतानि स्युः पीठानि जनमेजय । तत्संख्याकायस्तदीशान्यो देव्यश्च परिकीर्तिताः
सतीदेव्यङ्गभूतानि पीठानि कथितानि च । अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले
यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् । सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत्
एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च
कुर्याच्च महतीं पूजां भगवत्या विधानतः । क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः
कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय । भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः
सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप । तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो
देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते । प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत्
यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम्
पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः
य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे
वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः
नामाष्टशतजापेन बहवः सिद्धतां गताः । यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति
ग्रहमारीभयादीनि तत्र नैव भवन्ति हि । सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः
न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः
नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यन्ते देवैः किं पुनर्मनुजोत्तमैः
श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम्