जनमेजय उवाच - कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति संख्यानि नामानि कानि तेषां च मे वद
तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने
व्यास उवाच - शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः
येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः
वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी
प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा
विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले
एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे
केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका
स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका । श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा
वराहशैले तु जया कमला कमलालये । रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी
मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका । गंयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे
उत्पलाषी सहस्राक्षे हिरण्याक्षे महोत्पला । विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने
नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी । विपुले विपुला देवी कल्याणी मलयाचले
सह्याद्रावकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती
कोटवी कोटतीर्थे तु सुगन्धा माधवे वने । गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया
शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवयां तु राधा वृन्दावने वने
देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी
करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी
अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे
छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती
देवमाता सरस्वत्यां पारावारा तटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी
सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे
माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा
कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धरा नाम धृतिः पिण्डारके तथा
कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा
औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी