पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी । कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः
तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः । देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः
प्रार्थयामास तां मालां तं मुनिं स सतीपिता । अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले
इति बुद्ध्या तु तां मालां मनवे स समर्पयत् । गृहीता शिरसा माला मनुना निजमन्दिरे
स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् । पशुकर्मरतो रात्रौ मालागन्धेन मोदितः
अभवत्स महीपालस्तेन पापेन शङ्करे । शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप
राजंस्तेनापराधेन तज्जन्यो देह एव च । सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया
पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः । जनमेजय उवाच - दह्यमाने सतीदेहे जाते किमकरोच्छिवः
प्राणाधिका सती तस्य तद्वियोगेन कातरः । व्यास उवाच - ततः परं तु यज्जातां मया वक्तुं न शक्यते
त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप । वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः
त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् । ब्रह्मादयस्तदा देवां शङ्करं शरणं ययुः
जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः । अभयं दत्तवांस्तेभ्यो बस्तवक्रेण तं मनुम्
अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः । यज्ञवाटमुपागम्य रुरोद भृशदुःखितः
अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् । स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः
बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः । तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम्
विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः । चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन्
तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः । उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम्
भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् । नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका
स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः । तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः
इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः । कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः
जनमेजय उवाच - कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति संख्यानि नामानि कानि तेषां च मे वद
तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने
व्यास उवाच - शृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः
येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः
वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी
प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा
विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले
एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे
केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका