देवीपीठवर्णनम् व्यास उवाच - ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः । मायाबीजजपासक्तास्तपश्चेरुः समाहिताः
ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप । ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ
पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना । करुणारससम्पूर्णा सच्चिदानन्दरूपिणी
दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः । नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये
नमस्तेजसरूपायै सुत्रात्मवपुषे नमः । यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः
नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये । नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये
नमस्ते सर्वरूपायै सर्व लक्ष्यात्ममूर्तये । इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा
प्रणेमुश्चरणांभोजं दक्षाद्या मुनयोऽमलाः । ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी
वरं ब्रूत महाभागा वरदाहं सदा मता । तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम्
तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम । दक्षोऽथ पुनरप्याह जन्म देवि कुले मम
भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति । जपं ध्यानं तथा पूजां स्थानानि विविधानि च
वद मे परमेशानि स्वमुखेनैव केवलम् । देव्युवाच - मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः
नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन । अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः
भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे । जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया
मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा । ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम्
सच्चिदानंदरूपं वा स्थानं सर्वं जगन्मम । युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा
व्यास उवाच - इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी । दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः
ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् । हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप
जातौ पराम्बाकृपया गर्वेण रहितौ तदा । कदाचितदथ काले तु महः शाक्तमवातरत्
दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् । देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे
नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप । मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम्
सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः । मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम्
तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः । ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत्
सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप । जनमेजय उवाच - अनर्थकरमेतत्ते श्रावितं वचनं मुने
एतादृशं महद्वस्तु कथं दग्धं हुताशने । यन्नामस्मरणान्नृणां संसाराग्निभयं न हि
केन कर्मविपाकेन मनोर्दग्धं तदेव हि । व्यास उवाच - शृणु राजन् पुरा वृत्तं सतीदायस्य कारणम्
कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् । ददर्श देवीं तत्रासौ मायाबीजं जजाप सः
ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् । भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम्
ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः । ततो निर्गत्य तरसा व्योममार्गेण तापसः
आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता । सन्दर्शनार्थमम्बाया ननाम च सतीपदे