सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् । आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम्
तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् । राजन् राज्ञां पराशक्तिभक्तानां चरितं मया
धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् । पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम्
कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि । जनमेजय उवाच - गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया
हराय हरये तद्वन्नाभिपद्मोद्भवाय च । तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम्
क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् । मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः
असम्भाव्यमिदं भाति संशयोऽत्र महामुने । छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः
व्यास उवाच - शृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् । देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते
देवीत्रयं यदा देवत्रयायादात्पराम्बिका । तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे
कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः । महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात्
ब्रह्मणो वरदानेन दर्पिता रजताचलम् । रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च
कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः । षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम्
हाहाकारो महानासीद्देवदानवसेनयोः । महताथ प्रयत्नेन ताभ्यां ते दानवा हताः
स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः । स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः
अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः । महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ
देवावतीव संकृद्धौ मोहितावादिमायया । दुरुत्तरं च ददतुरवमानपुरःसरम्
ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः । अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत्
निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ । अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा
ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् । प्रधानौ देवतामध्ये कथं कार्याक्षमावमू
अकाण्डे किं निमित्तेन संकटं समुपस्थितम् । प्रलयो भविता किं वा जगतोऽस्य निरागसः
निमित्तं नैव जानेऽहं कथं कार्या प्रतिक्रिया । इति चिन्तातुरोऽत्यर्थं दध्यौ मीलितलोचनः
पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह । जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम
ततस्तयोश्च यत्कार्यं स्वयमेवाऽकरोत्तदा । स्वशक्तेश्च प्रभावेण कियत्कालं तपोनिधिः
ततस्तयोस्तु स्वस्त्यर्थं मन्वादीन्स्वसुतानथ । आह्वयामास धर्मात्मा सनकादींश्च सत्वरः
उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः । कार्यासक्तोऽहमधुना तपः कर्तुं न च क्षमः
पराशक्तेस्तु तोषार्थं जगद्भारयुतोऽस्म्यहम् । शिवविष्णू च विक्षिप्तौ पराशक्तिप्रकोपतः
तस्मात्तां परमां शक्तिं यूयं सन्तोषयन्त्वथ । अत्यद्भुतं तपः कृत्वा भक्त्या परमया युताः
यथा तौ पूर्ववृत्तौ च स्यात शक्तियुतावपि ां। तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः
कुले यस्य भवेज्जन्म तयोः शक्त्योस्तु तत्कुलम् । पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत्
व्यास उवाच - पितामहवचः श्रुत्वा गताः सर्वे वनान्तरे । रिराधयिषवः सर्वे दक्षाद्या विमलान्तराः