आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप । पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः
पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता । तत एव महादेव्या पञ्चब्रह्मासनं कृतम्
पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते । यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी
तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः
तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति । अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः
ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्तिं स्वगुणैर्निगूढाम्
तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे । लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया । सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च
तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः । येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि
कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् । तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम्
विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् । सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि
सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् । आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम्
तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् । राजन् राज्ञां पराशक्तिभक्तानां चरितं मया
धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् । पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम्
कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि । जनमेजय उवाच - गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया
हराय हरये तद्वन्नाभिपद्मोद्भवाय च । तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम्
क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् । मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः
असम्भाव्यमिदं भाति संशयोऽत्र महामुने । छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः
व्यास उवाच - शृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् । देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते
देवीत्रयं यदा देवत्रयायादात्पराम्बिका । तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे
कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः । महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात्
ब्रह्मणो वरदानेन दर्पिता रजताचलम् । रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च
कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः । षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम्
हाहाकारो महानासीद्देवदानवसेनयोः । महताथ प्रयत्नेन ताभ्यां ते दानवा हताः
स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः । स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः
अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः । महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ
देवावतीव संकृद्धौ मोहितावादिमायया । दुरुत्तरं च ददतुरवमानपुरःसरम्
ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः । अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत्
निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ । अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा
ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् । प्रधानौ देवतामध्ये कथं कार्याक्षमावमू
अकाण्डे किं निमित्तेन संकटं समुपस्थितम् । प्रलयो भविता किं वा जगतोऽस्य निरागसः