अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः । शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः
महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी । अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः
तत एकादशे प्राप्ते दिने परमदारुणे । रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः
कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः । संरम्भेणैव महता शक्तीः सर्वा विजित्य च
महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् । ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः
प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् । ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह
चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् । द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा
पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका । ततो वमन् स रुधिरं ममार पुर ईशितुः
तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह । हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम्
ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् । पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा
देवा ऊचुः जगद्भ्रमविवर्तैककारणे परमेश्वरि । नमः शाकम्भरि शिवे नमस्ते शतलोचने
सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि । नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते
चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः । प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम्
अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् । ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम्
कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः । सदयां परमेशानीं शताक्षीं मातरं विना
व्यास उवाच - इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः । पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे
प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ । ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी
ममेयं तनुरुत्कृष्टा पालनीया विशेषतः । यया विनानर्थ एष जातो दृष्टोऽधुनैव हि
पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि । नातः परतरं किञ्चित्कल्याणायोपदिश्यते
पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् । तेन तुष्टा भविष्यामि हरिष्यामि तथापदः
दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः । गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ
किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः । संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः
इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् । सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी
एतत्ते सर्वमाख्यातं रहस्यं परमं महत् । गोपनीयं प्रयत्नेन सर्वकल्याणकारकम्
य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः । सर्वान्कामानवाप्नोति देवीलोके महीयते
भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् व्यास उवाच - इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् । सोमवंशोद्भवानां च वर्णनीयं मया कियत्
पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे । राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम्
एते चान्ये च राजानः पराशक्तेरुपासकाः । संसारतरुमूलस्य कुठारा अभवन्नृप
तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी । पलालमिव धान्यार्थी त्यजेदन्यमशेषतः