समुद्धर महेशानि संकटात्परमोत्थितात् । जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके
प्रसीद त्वं महेशानि प्रसीद जगदम्बिके । अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः
नमः कूटस्थरूपायै चिद्रूपायै नमो नमः । नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः
नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । तां सर्वकारणां देवीं सर्वभावेन सन्नताः
इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी । अनन्ताक्षिमयं रूपं दर्शयामास पार्वती
नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम्
बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् । शाकादीन्फलसंयुक्ताननन्तरससंयुतान्
क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः । सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम्
कोटिसूर्यप्रतीकाशं करुणारससागरम् । दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा
मोचयामास लोकेषु वारिधारां सहस्रशः । नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः
दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती । तर्पितास्तेन ते लोका ओषध्यः सकला अपि
नदीनदप्रवाहास्तैर्जलैः समभवन्नृप । निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः
मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः । नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि
स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः । भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि
नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः । अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम्
त्वया यतो धृतं देवि शताक्षी त्वं ततो भव । क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः
कृपां कुरु महेशानि वेदानप्याहराम्बिके । व्यास उवाच - इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान्
स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा । नानाविधानि चान्नानि पशुभोज्यानि यानि च
काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ । शाकम्भरीति नामापि तद्दिनात्समभून्नृप
ततः कोलाहले जाते दूतवाक्येन बोधितः । ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ
सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः । रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा
तथा विप्रगणं चैव रोधयामास सर्वतः । ततः किलकिला शब्दः समभूद्देवमण्डले
त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः । ततस्तेजोमयं चक्रं देवानां परितः शिवा
चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता । ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः
शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् । परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम्
कठोरज्याटणत्कारबधिरीकृतदिक्तटम् । ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः
कालिका तारिणी बाला त्रिपुरा भैरवी रमा । बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी
कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा । छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका
द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः । असंख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः
मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् । शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते