सूत उवाच - एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् । यः शृणोति च दुःखार्तः स सुखं लभतेऽन्वहम्
स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् । भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात्
शताक्षीचरित्रवर्णनम् जनमेजय उवाच - विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् । शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च
शताक्षी सा कुतो जाता देवी भगवती शिवा । तत्कारणं वद मुने सार्थकं जन्म मे कुरु
को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः । पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते
व्यास उवाच - शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् । तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते
दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः
देवानां तु बलं वेदो नाशे तस्य सुरा अपि नंक्ष्यन्त्येव न संदेहो विधेयं तावदेव तत्
विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये । ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत
सहस्रवर्षपर्यन्तं चकार परमं तपः । तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः
ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः । ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः
समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः । वरं वरय भद्रं ते यस्ते मनसि वर्तते
तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः
पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर । त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि
विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर । बलं च देहि येन स्याद्देवानां च पराजयः
इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः
ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः । स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः
विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् । किमिदं किमिदं चेति विप्रा ऊचुः परस्परम्
वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् । इति भूमौ महानर्थे जाते परमदारुणे
निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम्
अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च । पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित्
निलयं गिरिदुर्गेषु रत्नसानुगुहासु च । संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम्
अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप । वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम्
कूपवापीतडागाश्च सरितः शुष्कतां गताः । अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी
मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा । गृहे गृहे मनुष्याणामभवच्छवसंग्रहः
अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः । गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम्
समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् । निराहारास्तदासक्तास्तामेव शरणं ययुः
दयां कुरु महेशानि पामरेषु जनेषु हि । सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके
कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि । त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः
नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः । यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि