हरिश्चन्द्रस्य निकटे प्रोवाच विबुधाधिपः । आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम्
धर्मप्रसादात्सम्प्राप्तं सर्वैर्युष्माभिरेव तु । हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः
प्राह राजा धर्मपरो दिवमारुह्यतामिति । सूत उवाच - तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः
ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै । कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः
विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा सम्भूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः
राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याख्ये पुरे रम्ये हृष्टपुष्टजनान्विते
तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम्
सम्प्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसाञ्चक्रे कामगमे क्षुद्रघण्टाविराजिते
ततस्तर्हि समालोक्य श्लोकमन्त्रं तदा जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित्
शुक्र उवाच - अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रो महेन्द्रस्य सलोकताम्
सूत उवाच - एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् । यः शृणोति च दुःखार्तः स सुखं लभतेऽन्वहम्
स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् । भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात्
शताक्षीचरित्रवर्णनम् जनमेजय उवाच - विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् । शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च
शताक्षी सा कुतो जाता देवी भगवती शिवा । तत्कारणं वद मुने सार्थकं जन्म मे कुरु
को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः । पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते
व्यास उवाच - शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् । तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते
दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः
देवानां तु बलं वेदो नाशे तस्य सुरा अपि नंक्ष्यन्त्येव न संदेहो विधेयं तावदेव तत्
विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये । ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत
सहस्रवर्षपर्यन्तं चकार परमं तपः । तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः
ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः । ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः
समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः । वरं वरय भद्रं ते यस्ते मनसि वर्तते
तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः
पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर । त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि
विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर । बलं च देहि येन स्याद्देवानां च पराजयः
इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः
ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः । स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः
विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् । किमिदं किमिदं चेति विप्रा ऊचुः परस्परम्
वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् । इति भूमौ महानर्थे जाते परमदारुणे
निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम्