अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः । न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम्
विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् । आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः
प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः
बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे । अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः
रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः । तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना
कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः । त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः
संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् । न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि
किं सुखं तात संसारे निजतत्त्वविचारणात् । मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा
अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये । तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः
मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च । बध्यते यदि संसारे को विमुच्येत मानवः
नातः परतरं लोके क्वचिदाश्चर्यमद्भुतम् । पुत्रदारगृहासक्तः पण्डितः परिगीयते
न बाध्यते यः संसारे नरो मायागुणैस्त्रिभिः । स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः
किं वृथाध्ययनेनात्र दृढबन्धकरेण च । पठितव्यं तदेवाशु मोचयेद्भवबन्धनात्
गह्णाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम् । क्व सुखं बन्धनागारे तेन भीतोऽस्म्यहं पितः
येऽबुधा मन्दमतयो विधिना मुषिताश्च ये । ते प्राप्य मानुषं जन्म पुनर्बन्धं विशन्त्युत
व्यास उवाच न गृहं बन्धनागारं बन्धने न च कारणम् । मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते
न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात् । गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक् शुचिः
ब्रह्मचारी यतिश्चैव वानप्रस्थो व्रतस्थितः । गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा
श्रद्धया चान्नदानेन वाचा सूनृतया तथा । उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः
गृहाश्रमात्परो धर्मो न दृष्टो न च वै श्रुतः । वसिष्ठादिभिराचार्यैर्ज्ञानिभिः समुपाश्रितः
किमसाध्यं महाभाग वेदोक्तानि च कुर्वतः । स्वर्गं मोक्षं च सज्जन्म यद्यद्वाञ्छति तद्भवेत्
आश्रमादाश्रमं गच्छेदिति धर्मविदो विदुः । तस्मादग्निं समाधाय कुरु कर्माण्यतन्द्रितः
देवान्पितॄन्मनुष्यांश्च सन्तर्प्य विधिवत्सुत । पुत्रमुत्पाद्य धर्मज्ञ संयोज्य च गृहाश्रमे
त्यक्त्वागृहं वनं गत्वा कर्तासि व्रतमुत्तमम् । वानप्रस्थाश्रमं कृत्वा संन्यासं च ततः परम्
इन्द्रियाणि महाभाग मादकानि सुनिश्चितम् । अदारस्य दुरन्तानि पञ्चैव मनसा सह
तस्माद्दारान्प्रकुर्वीत तज्जयाय महामते । वार्धके तप आतिष्ठेदिति शास्त्रोदितं वचः
विश्वामित्रो महाभाग तपः कृत्वातिदुश्चरम् । त्रीणि वर्षसहस्राणि निराहारो जितेन्द्रियः
मोहितश्च महातेजा वने मेनकया स्थितः । शकुन्तला समुत्पन्ना पुत्री तद्वीर्यजा शुभा
दृष्ट्वा दाशसुतां कालीं पिता मम पराशरः । कामबाणार्दितः कन्यां तां जग्राहोडुपे स्थितः
ब्रह्मापि स्वसुतां दृष्ट्वा पञ्चबाणप्रपीडितः । धावमानश्च रुद्रेण मूर्च्छितश्च निवारितः