त्वया सह मम श्रेयो गमनं नान्यथा भवेत् । सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते
हरिश्चन्द्राख्यानश्रवणफलवर्णनम् सूत उवाच - ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा
चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् । पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम्
रक्ताम्बरपरीधानां करुणारससागरम् । नानायुधधरामम्बां जगत्पालनतत्पराम्
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः
आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो । अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम्
साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ
एते चान्येऽथ बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः
तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः । इन्द्र उवाच - हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम्
त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः । आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः
सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः । सूत उवाच - ततोऽमृतमयं वर्षमपमृत्युविनाशनम्
इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ । पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च
समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः
ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा । सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः
बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत
सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् । समारोह महाभाग निजानां कर्मणां फलम्
हरिश्चन्द्र उवाच - देवराजाननुज्ञातः स्वामिना श्वपचेन हि । अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम्
धर्म उवाच - तवैवं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम्
इन्द्र उवाच - प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम्
हरिश्चन्द्र उवाच - देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे । मच्छोकमग्नमनसः कौसले नगरे नराः
तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् । ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा
तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् । भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम्
तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज । यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर
ततोऽहमपि यास्यामि नरकं वापि तैः सह । इन्द्र उवाच - बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप
कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि । हरिश्चन्द्र उवाच - भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम्
यजते च महायज्ञैः कर्म पूर्तं करोति च । तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम्
उपदादान्न संत्यक्ष्ये तानहं स्वर्गलिप्सया । तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम्
दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः । बहुकालोपभोज्यं च फलं यन्मम कर्मगम्
तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः । सूत उवाच - एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः
प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः । गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम्