स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथा वाक्यं निपपात महीतले
मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा
कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते
मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः
क्षणेन चेतनां प्राप्य विललापातिदुःखितः । राजोवाच - कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम्
यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच - मया च पूजिता गौरी देवा विप्रास्तथैव च
भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले
मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच - प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम्
नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् । चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि
चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम्
तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे । मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम्
कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः । तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम्
त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा । वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे
सोऽहं सुतशरीरेण दीप्यमाने हुताशने । निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना
न वक्तव्य त्वया किञ्चिदतः कमललोचने । मम वाक्यं च तन्वङ्गि निबोधाहतमानसा
अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः
सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया । इहलोके कुतस्त्वेतद्भविष्यति समीप्सितम्
यन्मया हसता किञ्चिद्रहसि त्वां शुचिस्मिते । अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः
राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः । सर्वयत्नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे
राज्ञ्युवाच अहमप्यत्र राजर्षे निपतिष्ये हुताशने । दुःखभारासहा देव सह यास्यामि वै त्वया
त्वया सह मम श्रेयो गमनं नान्यथा भवेत् । सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते
हरिश्चन्द्राख्यानश्रवणफलवर्णनम् सूत उवाच - ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा
चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् । पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम्
रक्ताम्बरपरीधानां करुणारससागरम् । नानायुधधरामम्बां जगत्पालनतत्पराम्
तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः
आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो । अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम्
साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ
एते चान्येऽथ बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः
तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः । इन्द्र उवाच - हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम्
त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः । आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः