निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना । एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः
परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह । ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत्
अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः
तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः
श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः । विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम्
प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षती सा तदापतन्मूर्च्छया धरणीतले
प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित
येनायममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम्
प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा
चामरव्यजने वापि कोऽयं विधिविपर्ययः । यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः
स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्ने घटीपटनिरन्तरे
मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे । वसानिष्पन्दसंशुष्कमहापटलमण्डिते
भस्माङ्गारार्धदग्धास्थिमज्जासंघट्टभीषणे । गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे
चिताधूमायतपटे नीलीकृतदिगन्तरे । कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे
चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः । एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा
कष्टं शोकसमाविष्टा विललापार्तया गिरा । राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान्
तत्कथ्यतां महाभाग मनो वै मुह्यते मम । यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता
तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता
यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः । सूत उवाच - इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः
कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता
स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथा वाक्यं निपपात महीतले
मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा
कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते
मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः
क्षणेन चेतनां प्राप्य विललापातिदुःखितः । राजोवाच - कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम्
यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच - मया च पूजिता गौरी देवा विप्रास्तथैव च
भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले
मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच - प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम्
नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् । चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि
चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम्