कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः
हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया । इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा
प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् । कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः
ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह । सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम्
मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले । चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम्
विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ । राजोवाच - हा वत्स सुकुमारं ते वदनं कुञ्चितालकम्
पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते । तात तातेति मधुरं ब्रुवाणं स्वयमागतम्
उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् । कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना
ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति । न वालं मम सम्भूतं मनो हृदयनन्दन
(मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।) गतं राज्यमशेषं मे सबान्धवधनं महत् । (हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः ।) अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम्
निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना । एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः
परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह । ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत्
अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः
तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः
श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः । विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम्
प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षती सा तदापतन्मूर्च्छया धरणीतले
प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित
येनायममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम्
प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा
चामरव्यजने वापि कोऽयं विधिविपर्ययः । यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः
स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्ने घटीपटनिरन्तरे
मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे । वसानिष्पन्दसंशुष्कमहापटलमण्डिते
भस्माङ्गारार्धदग्धास्थिमज्जासंघट्टभीषणे । गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे
चिताधूमायतपटे नीलीकृतदिगन्तरे । कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे
चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः । एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा
कष्टं शोकसमाविष्टा विललापार्तया गिरा । राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान्
तत्कथ्यतां महाभाग मनो वै मुह्यते मम । यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता
तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता
यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः । सूत उवाच - इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः
कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता