आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव । चाण्डाल उवाच - स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम्
गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि । यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति
नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि । राजोवाच - चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम्
स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम्
देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः
एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः । चाण्डालः कुपितः प्राह वेपमानं महीपतिम्
चाण्डाल उवाच - (नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्) चाण्डालदासतां कृत्वा सुराणां भाषसे वचः । दास किं बहुना नूनं शृणु मे गदतो वचः
निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि । किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि
गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् । एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत्
हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् सूत उवाच - ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम
शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः । एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः
न जानाति नृपः पत्नीं सा न जानाति भूपतिम् । अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति
स्त्र्युवाच - चाण्डाल शृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे । मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात्
तं दहामि हतं यावदानयित्वा तवान्तिकम् । तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम्
तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति । सा जगामातिदुःखार्ता विपलन्ती सुदारुणम्
भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् । हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा । श्मशानभूमिमागत्य बालं स्थाप्याविशद्भुवि
(राजन्नद्य स्वबालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ॥) तस्या विलापशब्दं तमाकर्ण्य स नराधिपः । शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा
तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः । चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम्
सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् । नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम्
भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः
अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् । दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम्
नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्गिणः । राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ
विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः । विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः
मृणालपादो गम्भीरनाभिरुद्धतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः
जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना । सूत उवाच - एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम्
स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् । सोऽप्युवाच च वत्सो मे दशामेतामुपागतः
नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् । विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः
ततो राज्ञी महादुःखावेशादिदमभाषत । राज्ञ्युवाच - हा वत्स कस्य पापस्य त्वपध्यानादिदं महत्
दुःखमापतितं घोरं तद्रूपं नोपलभ्यते । हा नाथ राजन् भवता मामपास्य सुदुःखिताम्