कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक । आशा मे महती पुत्र पूरयस्व महामते
तपस्तप्त्वा महाघोरं प्राप्तोऽसि त्वमयोनिजः । देवरूपी महाप्राज्ञ पाहि मां पितरं शुक
सूत उवाच इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा । विरक्तः सोऽतिरक्तं तं साक्षात्पितरमात्मनः
शुक उवाच किं त्वं वदसि धर्मज्ञ वेदव्यास महामते । तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम्
व्यास उवाच त्वदर्थे यत्तपस्तप्तं मया पुत्र शतं समाः । प्राप्तस्त्वं चातिदुःखेन शिवस्याराधनेन च
ददामि तव वित्तं तु प्रार्थयित्वाथ भूपतिम् । सुखं भुंक्ष्व महाप्राज्ञ प्राप्य यौवनमुत्तमम्
शुक उवाच किं सुखं मानुषे लोके ब्रूहि तात निरामयम् । दुःखविद्धं सुखं प्राज्ञा न वदन्ति सुखं किल
स्त्रियं कृत्वा महाभाग भवामि तद्वशानुगः । सुखं किं परतन्त्रस्य स्त्रीजितस्य विशेषतः
कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः । पुत्रदारैर्निबद्धस्तु न विमुच्येत कर्हिचित्
विण्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा । कः प्रीतिं तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति
अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः । न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम्
विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् । आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः
प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः
बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे । अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः
रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः । तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना
कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः । त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः
संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् । न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि
किं सुखं तात संसारे निजतत्त्वविचारणात् । मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा
अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये । तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः
मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च । बध्यते यदि संसारे को विमुच्येत मानवः
नातः परतरं लोके क्वचिदाश्चर्यमद्भुतम् । पुत्रदारगृहासक्तः पण्डितः परिगीयते
न बाध्यते यः संसारे नरो मायागुणैस्त्रिभिः । स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः
किं वृथाध्ययनेनात्र दृढबन्धकरेण च । पठितव्यं तदेवाशु मोचयेद्भवबन्धनात्
गह्णाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम् । क्व सुखं बन्धनागारे तेन भीतोऽस्म्यहं पितः
येऽबुधा मन्दमतयो विधिना मुषिताश्च ये । ते प्राप्य मानुषं जन्म पुनर्बन्धं विशन्त्युत
व्यास उवाच न गृहं बन्धनागारं बन्धने न च कारणम् । मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते
न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात् । गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक् शुचिः
ब्रह्मचारी यतिश्चैव वानप्रस्थो व्रतस्थितः । गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा
श्रद्धया चान्नदानेन वाचा सूनृतया तथा । उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः
गृहाश्रमात्परो धर्मो न दृष्टो न च वै श्रुतः । वसिष्ठादिभिराचार्यैर्ज्ञानिभिः समुपाश्रितः