हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुंकुमेनावलेपितम्
स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् । येन ते बालभावेन मृगनाभिविलेपितः
भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते । यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया
तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम्
हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये
हा पुत्र हा शिशो वत्स का कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः
जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः । जना ऊचुः - का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति
एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत्
भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह । विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना
अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः । संत्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः
नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते । तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी
शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः । भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः
इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् । भुजयोरपरैश्चैव कैश्चापि गलके तथा
खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्कणे नीता चाण्डालाय समर्पिता
हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी । वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले
चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता । न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा
भक्षितान्यनया भूरि भवद्भिः पुण्यमार्जितम् । ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम्
द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः । अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः
महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे
अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः । बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत्
हरिश्चन्द्रमथोवाच वाचा परुषया तदा । रे दास वध्यतामेषा दुष्टात्मा मा विचारय
तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा । वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्कितः
न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् । असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम्
श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् । मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः
बालानामेव भयदा नेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत्
स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः
पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा । नरके पच्यते सोऽथ महारौरवपूर्वके
चाण्डाल उवाच - मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् । यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत्
तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् । भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया
तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति । राजोवाच - चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम्