दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता । यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा
वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि
विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना
आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता
पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा
कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर
हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम्
तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया । निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह
हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम्
निशार्धं वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम्
मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः । सूत उवाच - एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह
हा शिशो बाल हा वत्स रोहिताख्य कुमारक । रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि
तवाहं जननी वत्स किं न जानासि पश्य माम् । देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात्
यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् । ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम्
दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः
मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः । इत्यादि सकलं जातमसत्यमधुना सुत
चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः । तव पाणितले पुत्र कलशश्चामरं तथा
लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च । तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत
हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः । क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम्
क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः । सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे
हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुंकुमेनावलेपितम्
स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् । येन ते बालभावेन मृगनाभिविलेपितः
भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते । यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया
तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम्
हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये
हा पुत्र हा शिशो वत्स का कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः
जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः । जना ऊचुः - का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति
एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत्
भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह । विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना
अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः । संत्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः