पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत
मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । ब्राह्मण उवाच - अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे
रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत्
रुरोद करुणं दीना पुत्रशोकेन पीडिता । अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा
अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि
अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः
रुदिता कारणं प्राह विप्रं गद्गदया गिरा । स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः
अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत
इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत
ब्राह्मण उवाच - शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति
नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत्
किमनेनाथवा कार्यं धर्मसंकीर्तनेन मे । यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः
तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे । एहि ते विद्यते किञ्चित्परलोकभयं यदि
एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव
प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः
रुरोद करुणं बाला पुत्रशोकेन पीडिता । अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः
विप्र उवाच - किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोधं कशाघातफलप्रदम्
एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा
ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम्
न लुप्येत यथा प्रातर्गृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह
दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता । यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा
वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि
विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना
आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता
पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा
कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर
हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम्
तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया । निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह
हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम्
निशार्धं वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम्