चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् सूत उवाच - एकदा तु गतो रन्तुं बालकैः सहितो बहिः । वाराणस्या नातिदूरे रोहिताख्यः कुमारकः
क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे । कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः
आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम्
पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् । मस्तके भारकं कृत्वा खिद्यमानः पदे पदे
उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः
कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे
विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः । महाविषो महाघोरो वल्मीकान्निर्गतस्तदा
तेनासौ बालको दष्टस्तदैव च पपात ह । रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम्
त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः
अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा
पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत
मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । ब्राह्मण उवाच - अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे
रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत्
रुरोद करुणं दीना पुत्रशोकेन पीडिता । अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा
अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि
अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः
रुदिता कारणं प्राह विप्रं गद्गदया गिरा । स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः
अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत
इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत
ब्राह्मण उवाच - शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति
नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत्
किमनेनाथवा कार्यं धर्मसंकीर्तनेन मे । यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः
तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे । एहि ते विद्यते किञ्चित्परलोकभयं यदि
एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव
प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः
रुरोद करुणं बाला पुत्रशोकेन पीडिता । अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः
विप्र उवाच - किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोधं कशाघातफलप्रदम्
एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा
ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम्
न लुप्येत यथा प्रातर्गृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह