यतो दृष्टं शुकीरूपं घृताच्याः सम्भवे तदा । शुकेति नाम पुत्रस्य चकार मुनिसत्तमः
बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा । व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम्
सोऽधीत्य निखिलान्वेदान् सरहस्यान्ससंग्रहान् । धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः
गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा । आजगाम पितुः पार्श्वं कृष्णद्वैपायनस्य च
दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससम्भ्रमः । आलिलिङ्ग मुहुर्घ्राणं मूर्ध्नि तस्य चकार ह
पप्रच्छ कुशलं व्यासस्तथा चाध्ययनं शुचि । आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे
दारकर्म ततो व्यासः शुकस्य पर्यचिन्तयत् । कन्यां मुनिसुतां कान्तामपृच्छदतिवेगवान्
शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयानघ । धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते
गार्हस्थ्यं च समासाद्य यज देवान्पितॄनथ । ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान्
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्पुत्र महाभाग कुरुष्वाद्य गृहाश्रमम्
कृत्वा गृहाश्रमं पुत्र सुखिनं कुरु मां शुक । आशा मे महती पुत्र पूरयस्व महामते
तपस्तप्त्वा महाघोरं प्राप्तोऽसि त्वमयोनिजः । देवरूपी महाप्राज्ञ पाहि मां पितरं शुक
सूत उवाच इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा । विरक्तः सोऽतिरक्तं तं साक्षात्पितरमात्मनः
शुक उवाच किं त्वं वदसि धर्मज्ञ वेदव्यास महामते । तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम्
व्यास उवाच त्वदर्थे यत्तपस्तप्तं मया पुत्र शतं समाः । प्राप्तस्त्वं चातिदुःखेन शिवस्याराधनेन च
ददामि तव वित्तं तु प्रार्थयित्वाथ भूपतिम् । सुखं भुंक्ष्व महाप्राज्ञ प्राप्य यौवनमुत्तमम्
शुक उवाच किं सुखं मानुषे लोके ब्रूहि तात निरामयम् । दुःखविद्धं सुखं प्राज्ञा न वदन्ति सुखं किल
स्त्रियं कृत्वा महाभाग भवामि तद्वशानुगः । सुखं किं परतन्त्रस्य स्त्रीजितस्य विशेषतः
कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः । पुत्रदारैर्निबद्धस्तु न विमुच्येत कर्हिचित्
विण्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा । कः प्रीतिं तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति
अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः । न वाञ्छाम्यहमग्रेऽपि योनावेव समुद्भवम्
विट्सुखं किमु वाञ्छामि त्यक्त्वाऽऽत्मसुखमद्भुतम् । आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः
प्रथमं पठिता वेदा मया विस्तारिताश्च ते । हिंसामयास्ते पतिताः कर्ममार्गप्रवर्तकाः
बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे । अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः
रोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः । तथा गुरुर्मुमुक्षोर्मे गृहस्थोऽयं विडम्बना
कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः । त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः
संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् । न च विश्रमणं क्यापि सूर्यस्येव दिवानिशि
किं सुखं तात संसारे निजतत्त्वविचारणात् । मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा
अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये । तेभ्यः परो न मूर्खोऽस्ति सधर्मा श्वाश्वसूकरैः
मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च । बध्यते यदि संसारे को विमुच्येत मानवः