विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ
यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच - असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः
ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच - तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः
क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच - भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक
कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः । विश्वामित्र उवाच - यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम
न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् । चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम्
विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः । धनेनाहं विना राजन्न यास्यामि न संशयः
इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे
व्यास उवाच - हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः । प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः
हरिश्चन्द्र उवाच - दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः
भवेयं वित्तशेषेण तव कर्मकरो वशः । तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः
विश्वामित्र उवाच - एवमस्तु महाराज ममैव भव किङ्करः । किंतु मद्वचनं कार्यं सर्वदैव नराधिप
व्यास उवाच - एवमुक्तेऽथ वचने राजा हर्षसमन्वितः । अमन्यत पुनर्जातमात्मानं प्राह कौशिकम्
तवादेशं करिष्यामि सदैवाहं न संशयः । आदेशय द्विजश्रेष्ठ किं करोमि तवानघ
विश्वामित्र उवाच - चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि । गृहाण दासं मौल्येन मया दत्तं तवाधुना
नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम । व्यास उवाच - एवमुक्ते तदा तेन स्वपचो हृष्टमानसः
आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत । चाण्डाल उवाच - दशयोजनविस्तीर्णे प्रयागस्य च मण्डले
भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम । अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया
व्यास उवाच - ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः । चाण्डालेन प्रदत्तानि जग्राह द्विजसत्तमः
हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः
तत्तदेव मया कार्यं यदयं कारयिष्यति । अथान्तरिक्षे सहसा वागुवाचाशरीरिणी
अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया । ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि
साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः । हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत्
राजोवाच - त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते । यदर्थं मोचितोऽहं ते क्षणाच्चैवानृणीकृतः
किं करोमि महाबाहो श्रेयो मे वचनं तव । एवमुक्ते तु वचने नृपं मुनिरभाषत
विश्वामित्र उवाच - चाण्डालवचनं कार्यमद्यप्रभृति ते नृप । स्वस्ति तेऽस्विति तं प्रोच्य तदादाय धनं ययौ
हरिश्चन्द्रचिन्तावर्णनम् शौनक उवाच - ततः किमकरोद्राजा चाण्दालस्य गृहे गतः । तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे
सूत उवाच - विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्
असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा । दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम्