एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् । राजोवाच - किमनेन महाभाग कथितेन तवानघ
शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत । ऋषिरुवाच - अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे
द्रव्यस्यागमनं राजन् कथयस्व यथातथम् । राजोवाच - मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसंख्यया । विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे
सूत उवाच - तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत्
ऋषिरुवाच - राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत्
क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम्
तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च
राजोवाच - अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः
विश्वामित्र उवाच - चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया
हरिश्चन्द्रोपाख्यानवर्णनम् व्यास उवाच - तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः । तदादाय धनं पूर्णं कुपितः कौशिको ययौ
विश्वामित्रे गते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः
वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति । स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः
अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् । दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी
कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः । हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः
चाण्डाल उवाच - अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते
व्यास उवाच - तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः
चाण्डाल उवाच - चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम । शासने सर्वदा तिष्ठ मृतचैलापहारकः
एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् । ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम
उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः । अधमस्याधमश्चैव इति प्राहुर्मनीषिणः
चाण्डाल उवाच एवमेव त्वया धर्मः कथितो नृपसत्तम । अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः
विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ
यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच - असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः
ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच - तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः
क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः
कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच - भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक
कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः । विश्वामित्र उवाच - यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम
न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् । चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम्
विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः । धनेनाहं विना राजन्न यास्यामि न संशयः
इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे
व्यास उवाच - हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः । प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः