प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः
प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता । बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत्
यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि । तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः
पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् । हाहेति च वदन् राजा विललापाकुलेन्द्रियः
वियुक्तेयं कथं जाता सत्यशीलगुणान्विता । वृक्षच्छायापि वृक्षं तं न जहाति कदाचन
एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् । पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि
कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् । राज्यत्यागे न मे दुःखं वनवासे न मे द्विज
यत्पुत्रेण वियोगो मे एवमाह स भूपतिः । सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि
मया त्यक्तासि कल्याणि दुःखेन विनियोजिता । इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम्
मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि । ईदृशे मज्जमानं मां सुमहच्छोकसागरे
को मामुद्धरते देवि पौराणाख्यानविस्तरैः । सूत उवाच - पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः
घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे । नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः
विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः । यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः
दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता । सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः
सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् । हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः
दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् । व्यास उवाच - एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत
वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः । अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः
सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः । विश्वामित्र उवाच- या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा
तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् । हरिश्चन्द्र उवाच - नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम्
राजसूयस्य यागस्य या मयोक्ता पुरानघ । विश्वामित्र उवाच - कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते
एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् । राजोवाच - किमनेन महाभाग कथितेन तवानघ
शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत । ऋषिरुवाच - अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे
द्रव्यस्यागमनं राजन् कथयस्व यथातथम् । राजोवाच - मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसंख्यया । विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे
सूत उवाच - तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत्
ऋषिरुवाच - राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत्
क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम्
तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च
राजोवाच - अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः
विश्वामित्र उवाच - चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया
हरिश्चन्द्रोपाख्यानवर्णनम् व्यास उवाच - तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः । तदादाय धनं पूर्णं कुपितः कौशिको ययौ