राजोवाच - असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम्
क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम्
पत्न्युवाच - यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः
अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं संगृहीत्वाथ गुर्वर्थं सम्प्रदीयताम्
एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः । कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः
भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि
न द्युतहेतोर्न च मद्यहेतो- र्न राज्यहेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतत्वं सफलं कुरुष्व
हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् व्यास उवाच - स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः
नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम्
एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः । बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम
कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम्
तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः । राजोवाच - किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः
राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् । व्यास उवाच - तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक्
वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः
अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे
अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् । एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः
विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् । विप्र उवाच - कर्मणश्च वयोरूपशीलानां तव योषितः
अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् । धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च
द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता । कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम्
इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः । दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत्
ततः स विप्रो नृपतेः पुरतो वल्कलोपरि । धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत्
राज्ञ्युवाच - मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति
पश्येह पुत्र मामेवं मातरं दास्यतां गताम् । मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना
ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् । समभ्यधावदम्बेति वदन्साश्रुविलोचनः
हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् । तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा
वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् । राज्ञ्युवाच - प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम्
क्रीतापि नाहं भविता विनैनं कार्यसाधिका । इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो
ब्राह्मण उवाच - गृह्यतां वित्तमेतत्ते दीयतां मम बालकः । स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम्
शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः । द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता
कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् । सूत उवाच - तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः