एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा
तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः । स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत्
उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते
आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च
पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः
विश्वामित्र उवाच - दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी
सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम्
मदीयां दक्षिणां राजन्न दास्यति भवान्यदि । अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम्
इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः
सूत उवाच - एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः । ब्राह्मणैर्बहुभिः सार्धं निर्ययौ स्वगृहाद् बहिः
ततो राज्ञी तु तं दृष्ट्वा आयान्तं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा
त्रयाणामपि वर्णानां पिता ब्राह्मण उच्यते । पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः
तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच - नाहं प्रतिग्रहं काङ्क्षे क्षत्रियोऽहं सुमध्यमे
याचनं खलु विप्राणां क्षत्रियाणां न विद्यते । गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्ति सर्वदा
तस्माद् गुरुर्न याच्यः स्यात्क्षत्रियाणां विशेषतः । यजनाध्ययनं दानं क्षत्रियस्य विधीयते
शरणागतानामभयं प्रजानां प्रतिपालनम् । न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः
ददामीत्येव मे देवि हृदये निहितं वचः । अर्जितं कुत्रचिद् द्रव्यं ब्राह्मणाय ददाम्यहम्
पत्न्युवाच - कालः समविषमकरः परिभवसम्मानमानदः कालः । कालः करोति पुरुषं दातारं याचितारं च
विप्रेण विदुषा राजा क्रुद्धेनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम्
राजोवाच - असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम्
क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम्
पत्न्युवाच - यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः
अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं संगृहीत्वाथ गुर्वर्थं सम्प्रदीयताम्
एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः । कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः
भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि
न द्युतहेतोर्न च मद्यहेतो- र्न राज्यहेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतत्वं सफलं कुरुष्व
हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् व्यास उवाच - स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः
नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम्
एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः । बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम